|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.103. अध्यायः 103
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति तिलजलदीपादिदानप्रशंसापरयमब्राह्मणसंवादानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
तिलानां कीदृशं दानमथ दीपस्य चैव हि।
अन्नानां वाससा चैव भूय एव ब्रवीहि मे॥ 13-103-1(85571)
भीष्म उवाच। 13-103-2x(7101)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर॥ 13-103-2(85572)
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह।
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः॥ 13-103-3(85573)
पर्णशालेति विख्यातो रमणीयो नराधिप।
विद्वांशस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तथा॥ 13-103-4(85574)
अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम्।
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम्॥ 13-103-5(85575)
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय।
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम्॥ 13-103-6(85576)
शमे निविष्टं विद्वांसमध्यापकमनावृतम्।
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः॥ 13-103-7(85577)
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना।
अपत्येषु तथा वृत्ते समस्तेनैव धीमता।
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे॥ 13-103-8(85578)
स गत्वा प्रतिकूलं तच्चकार यमशासनम्।
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः॥ 13-103-9(85579)
तस्मै यमः समुत्थाय पूजा कृत्वा च वीर्यवान्।
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति॥ 13-103-10(85580)
एवमुक्ते तु वचने धर्मराजेन स द्विजः।
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै।
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत॥ 13-103-11(85581)
यम उवाच। 13-103-12x(7102)
नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन।
यो हि धर्मं चरति वै तं तु जानामि केवलम्॥ 13-103-12(85582)
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते।
ब्रूहि सर्वं यथा स्वैरं करवाणि किमच्युत॥ 13-103-13(85583)
ब्राह्मण उवाच। 13-103-14x(7103)
शुद्धदानं च सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे।
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम॥ 13-103-14(85584)
यम उवाच। 13-103-15x(7104)
शृणु तत्त्वेन विप्रर्पे प्रदानविधिमुत्तमम्।
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम्॥ 13-103-15(85585)
तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ।
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत॥ 13-103-16(85586)
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम्।
तान्प्रयच्छस्व विप्रेभअयो विधिदृष्टेन कर्मणाः॥ 13-103-17(85587)
वैशाख्यां पौर्णमास्यां तु तिलान्दद्याद्द्विजातिषु।
तिला भक्षयितव्याश्च सदा त्वालम्भं च तैः 13-103-18(85588)
कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे।
तथाऽऽपः सर्वदा देयाः पेयाश्चैव न संशयः॥ 13-103-19(85589)
पुष्करिण्यस्तटाकानि कूपांश्चैवात्र खानयेत्।
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम॥ 13-103-20(85590)
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम्।
प्रपाश्च कार्या दानार्थं नित्यं ते द्विजसत्तम।
भुक्तेऽप्यथ प्रदेयं तु पानीयं वै विशेषतः॥ 13-103-21(85591)
`पानीयाभ्यर्थिनं दृष्ट्वा प्रीत्या दत्त्वा त्वरान्वितः।
वस्त्रे तन्तुप्रमाणेन दीपे निमिषवत्सरम्॥ 13-103-22(85592)
गवां रोमप्रमाणेन स्वर्गभोगमुपाश्नुते।
जलबिन्दुप्रमाणेन तदेतान्युपवर्तय॥'॥ 13-103-23(85593)
भीष्म उवाच। 13-103-24x(7105)
इत्युक्ते स तदा तेन यमदूतेन वै गृहान्।
नीतश्च कारयामास सर्वं तद्यमशासनम्॥ 13-103-24(85594)
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा।
ययौ स धर्मराजाय न्यवेदयत चापि तम्॥ 13-103-25(85595)
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान्।
कृत्वा च संविदं तेन विससर्ज यथागतम्॥ 13-103-26(85596)
तस्यापि च यमः सर्वमुपदेशं चकार ह।
प्रेत्यैत्य च ततः सर्वं चकारोक्तं यमेन तत्॥ 13-103-27(85597)
तथा प्रशंसने दीपान्यमः पितृहितेप्सया।
तस्माद्दीपप्रदो नित्यं सन्तारति वै पितॄन्॥ 13-103-28(85598)
दातव्याः सततं दीपास्तस्माद्भरतसत्तम।
देवतानां पितॄणां च चक्षुष्यं चात्मनां विभो॥ 13-103-29(85599)
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप।
यस्तान्विक्रीय यजते ब्राह्मणो ह्यभयंकरम्॥ 13-103-30(85600)
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै।
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च॥ 13-103-31(85601)
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम्।
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित्॥ 13-103-32(85602)
वाससां सम्प्रदानेनि स्वदारनिरतो नरः।
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम॥ 13-103-33(85603)
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः।
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात्॥ 13-103-34(85604)
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च।
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते॥ ॥ 13-103-35(85605)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यधिकशततमोऽध्यायः॥ 103 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-103-7 अध्यापकमनानृतमिति थ.पाठः। अध्यापकमनारतमिति ध.पाठः॥ 7-103-9 चकारचयमाश्रय इति थ.ध.पाठः॥ 7-103-11 इह यमलोके॥ 7-103-13 कालस्य विहितं आयुःप्रमाणं न प्राप्नोमि न जानामि। कालेनाप्रवर्तितं त्वामिह स्थापयितुं न शक्नोमीत्यर्थः। विहितं प्रापयामीह कञ्चनेति थ.पाठः॥ 7-103-14 बृहि पृच्छ॥ 7-103-17 निर्घर्तयन्ति साधयन्ति॥ 7-103-18 आलम्भनं सर्वतः स्पर्शनं उद्वर्तनमित्यर्थः॥ 7-103-32 एतद्दि तस्याऽभयङ्करं प्रतिग्रहविक्रयजदोषघ्नम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|